|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.40. अध्यायः 040
Mahabharata - Sabha Parva - Chapter Topics
शिशुपालेन अनेकधा कृष्णोपालम्भनपूर्वकं सभातो निर्गमनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
शिशुपाल उवाच।
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु।
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्॥ 2-40-1(12999)
नायं युक्तः समाचारः पाण्डवेषु महात्मसु।
यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि॥ 2-40-2(13000)
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः।
अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः॥ 2-40-3(13001)
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया।
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्॥ 2-40-4(13002)
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्।
अर्हणामर्हति तथा यथा युष्माभिरर्चितः॥ 2-40-5(13003)
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः।
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः॥ 2-40-6(13004)
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्।
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्॥ 2-40-7(13005)
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन।
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि॥ 2-40-8(13006)
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन।
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया॥ 2-40-9(13007)
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे।
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया॥ 2-40-10(13008)
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे।
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन॥ 2-40-11(13009)
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे।
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः॥ 2-40-12(13010)
द्रुमं कम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः।
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे॥ 2-40-13(13011)
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च।
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः॥ 2-40-14(13012)
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः।
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत॥ 2-40-15(13013)
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः।
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः॥ 2-40-16(13014)
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः।
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया॥ 2-40-17(13015)
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः।
किं राजभिरिहानीतैरवमानाय भारत॥ 2-40-18(13016)
वयं तु न भयादस्य कौन्तेयस्य महात्मनः।
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्॥ 2-40-19(13017)
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः।
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते॥ 2-40-20(13018)
किमन्यदवमनानाद्धे यदेनं राजसंसदि।
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि॥ 2-40-21(13019)
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्।
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्॥ 2-40-22(13020)
योयं वृष्णिकुले जातो राजानं हतवान्पुरा।
जरासन्धं महात्मानमन्यायेन दुरात्मवान्॥ 2-40-23(13021)
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्।
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्॥ 2-40-24(13022)
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः।
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि॥ 2-40-25(13023)
अथवा कृपणैरेतामुपनीतां जनार्दन।
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि॥ 2-40-26(13024)
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे।
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने॥ 2-40-27(13025)
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते।
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन॥ 2-40-28(13026)
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्।
अराज्ञो राजवत्पूजा तथा ते मधुसूदन॥ 2-40-29(13027)
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः।
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्॥ 2-40-30(13028)
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्।
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा॥ ॥ 2-40-31(13029)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि चत्वारिंशोऽध्यायः॥ 40॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|